|
|
 |
 |
|
|
१२ शान्तिपर्व.jpg)
॥ श्रीः ॥
12.119. अध्यायः 119
Mahabharata - Shanti Parva - Chapter Topics
भीष्मेण युधिष्ठिरंप्रति भृत्यानां स्वस्वयोग्यतानुसारेणाधिकारे स्थापनादेर्भृत्यलक्षणादीनां च कथनम्॥ 1॥

Mahabharata - Shanti Parva - Chapter Text
भीष्म उवाच। 12-119-0x(5661)(69398)
एवं गुणयुतान्भृत्यान्स्वेस्वे स्थाने नराधिपः।
नियोजयति कृत्येषु स राज्यफलमश्नुते॥ 12-119-1(69399)
न वा स्वस्थानमुत्क्रम्य प्रमाणमपि सत्कृतम्।
आरोप्य चापि स्वस्थानमुत्क्रम्यान्यत्प्रपद्यते॥ 12-119-2(69400)
स्वजातिगुणसंपन्नाः स्वेषु धर्मेष्ववस्थिताः।
प्रकर्तव्या ह्यमात्यास्तु नास्थाने प्रक्रिया क्षमा॥ 12-119-3(69401)
अनुरूपाणि कर्माणि भृत्येभ्यो यः प्रयच्छति।
स भृत्यगुणसंपन्नं राजा फलमुपाश्नुते॥ 12-119-4(69402)
शरभः शरभस्थाने सिंहः सिंह इवोत्थितः।
व्याघ्रो व्याघ्र इव स्थाप्यो द्वीपी द्वीपी यथा तथा॥ 12-119-5(69403)
कर्मस्विहानुरूपेषु न्यस्या भृत्या यथाविधि।
प्रतिलोमं न भृत्यास्ते स्थाप्याः कर्मफलैषिणा॥ 12-119-6(69404)
यः प्रमाणमतिक्रम्य प्रतिलोमं नराधिपः।
भृत्यान्स्थापयतेऽबुद्धिर्न स रञ्जयते प्रजाः॥ 12-119-7(69405)
न बालिशा न च क्षुद्रा नाप्राज्ञा नाजितेन्द्रियाः।
नाकुलीना जनाः पार्श्वे स्थाप्या राज्ञा गुणैषिणा॥ 12-119-8(69406)
साधवः कुलजाः शूरा ज्ञानवन्तोऽनसूयकाः।
अक्षुद्राः शुचयो दक्षाः स्युर्नराः पारिपार्श्वकाः॥ 12-119-9(69407)
उद्भूतास्तत्पराः शान्ताश्चौक्षाः प्रकृतिजाः शुभाः।
स्वेस्वे स्थानेऽनुपाकृष्टास्ते स्यू राज्ञो बहिश्चराः॥ 12-119-10(69408)
सिंहस्य सततं पार्श्वे सिंह एव जनो भवेत्।
असिंहः सिंहसहितः सिंहवल्लभते फलम्॥ 12-119-11(69409)
यस्तु सिंहः श्वभिः कीर्णः सिंहकर्मफले रतः।
न स सिंहफलं भोक्तुं शक्तः श्वभिरुपासितः॥ 12-119-12(69410)
एव मेतैर्मनुष्येन्द्र शूरैः प्राज्ञैर्बहुश्रुतैः।
कुलीनैः सह शक्येत कृत्स्ना जेतुं वसुंधरा॥ 12-119-13(69411)
नावैद्यो नानृजुः पार्श्वे नाप्राज्ञो ना महायशाः।
संग्राह्यो वसुधापालैर्भृत्यो भृत्यवतां वर॥ 12-119-14(69412)
वाणवद्विसृता यान्ति स्वामिकार्यपरा नराः।
ये भृत्याः पार्थिवहितास्तेषु सान्त्वं सदा चरेत्॥ 12-119-15(69413)
कोशश्च सततं रक्ष्यो यत्नमास्थाय राजभिः।
कोशमूला हि राजानः कोशवृद्धिकरो भवेत्॥ 12-119-16(69414)
कोष्ठागारं च ते नित्यं स्फीतं धान्यैः सुसंचितैः।
सदा त्वं सत्सु संन्यस्तधनधान्यपको भव। 12-119-17(69415)
नित्ययुक्ताश्च ते भृत्या भवन्तु रणकोविदाः।
वाजिनां च प्रयोगेषु वैशारद्यमिहेष्यते॥ 12-119-18(69416)
ज्ञातिबन्धुजनावेक्षी मित्रसंबन्धिसत्कृतः।
पौरकार्यहितान्वेक्षई भव कौरवनन्दन॥ 12-119-19(69417)
एषा ते नैष्ठिकी बुद्धिः प्रज्ञा चाभिहिता मषा।
श्वाते निदर्शनं तात किं भूयः श्रोतुमिच्छसि॥ ॥ 12-119-20(69418)
इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि एकोनविंशत्यधिकशततमोऽध्यायः॥ 119॥
Mahabharata - Shanti Parva - Chapter Footnotes
12-119-1 एवं नीचाननीचे नैव योजयेत्॥ 12-119-7 अबुद्धिरिति च्छेदः॥ 12-119-10 बहिश्चराः प्राणा इवेति शेषः॥ 12-119-15 विसृताः अपरावर्तिनः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|